|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.266. अध्यायः 266
Mahabharata - Vana Parva - Chapter Topics
जयद्रथचोदनया कोटिकाश्येन द्रौपदींप्रति तत्पितृभर्तृकुलादिप्रश्नः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
कोटिक उवाच। 3-267-0x(2654)(26156)
का त्वं कदम्बस्य विनम्य शाखां
किमाश्रमे तिष्ठसि शोभमाना।
देदीप्यमानाऽग्निशिखेव नक्तं
व्याधूयमाना पवनेन सूभ्रूः ॥ 3-267-1(26157)
अतीव रूपेण समन्विता त्वं
न चाप्यरण्येषु बिभेषि किंनु।
देवी नु यक्षी यदिदानवी वा
वराप्सरा दैत्यवराङ्गना वा ॥ 3-267-2(26158)
वपुष्मती वोरगराजकन्या
वनेचरी वा क्षणदाचरस्त्री।
त्वं देवराज्ञो वरुणस्य पत्नी
यमस्य सोमस्य धनेश्वरस्य ॥ 3-267-3(26159)
धातुर्विधातुः सवितुर्विभोर्वा
शक्रस्य वा त्वं सदनात्प्रपन्ना।
न ह्येव नः पृच्छसि ये वयं स्म
न चापि जानीम तवेह नाथम् ॥ 3-267-4(26160)
वयं हि मानं तव वर्धयन्तः
पृच्छाम भद्रेप्रभवं प्रभुं च।
आचक्ष्व बन्धूंश्च पतिं कुलं च
जातिं च यच्चेगह करोषि कार्यम् ॥ 3-267-5(26161)
अहं तु राज्ञः सुरथस्य पुत्रो
यं कोटिकाश्येति विदुर्मनुष्याः।
`वश्येन्द्रियः सत्यरतिर्वरोरु
वृद्धोपसेवी गुरुपूजकश्च' ॥ 3-267-6(26162)
असौ तु यस्तिष्ठतिकाञ्चनाङ्गे
तथे हुतोऽग्निश्चयने यथैव।
तरिगर्तराजः कमलायताक्षः
क्षेमंकरो नाम स एष वीरः ॥ 3-267-7(26163)
अस्मात्परस्त्वेष महाधनुष्मा-
न्पुत्रः कुलिन्दाधिपतेर्वरिष्ठः।
निरीक्षते त्वां विपुलायताक्षः
सुपुष्पितः पर्वतवासनित्यः ॥ 3-267-8(26164)
असौ तु यः पुष्करिणीसमीपे
श्यामो युवा तिष्ठति दर्शनीयः।
इक्ष्वाकुराजः सुबलस्य पुत्रः
स एव हन्ता द्विषतां सुगात्रि ॥ 3-267-9(26165)
यस्यानुयात्रं ध्वजिनः प्रयान्ति
सौवीरका द्वादशराजपुत्राः।
शोणाश्वयुक्तेषु रथेषु सर्वे
मस्वेषु दीप्ता इव इव्यवाहाः ॥ 3-267-10(26166)
अङ्गारकः कुञ्जरो गुप्तकश्च
श्रुंजयः संजयसुप्रवृद्धौ।
प्रभंकरोऽथ भ्रमरो रविश्च
शूरः प्रतापःकुहनश्च नाम ॥ 3-267-11(26167)
यं षट्सहस्रा रथिनोऽनुयान्ति
नागा हयाश्चैव पदातिनश्च।
जयद्रथो नाम यदि श्रुतस्ते
सौवीरराजः सुभगे स एषः ॥ 3-267-12(26168)
तस्यापरे भ्रातरोऽदीनसत्वा
बलाहकानीकविदारणाद्याः।
सौवीरवीराः प्रवरा युवानो
राजानमेते बलिनोऽनुयान्ति ॥ 3-267-13(26169)
एतैः सहायैरुपयाति राजा
मरुद्गणैरिन्द्र इवाभिगुप्तः।
अजानतां ख्यापय नः सुकेशि
कस्यासि भार्या दुहिता च कस्य ॥ 3-267-14(26170)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि षट्षष्ट्यधिकद्विशतमोऽध्यायः ॥ 266 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-267-4 धातुः प्रजापतेः सरस्वती वा। विधातुः कश्यपस्य रुद्वस्य वा। अदितिः पार्वती वा। विभोर्विष्णोर्लक्ष्मीर्वा ॥ 3-267-5 प्रभवपितरम्। प्रभुं महान्तम्। प्रभवं भुवं चेति ध.पाठः ॥ 3-267-7 चयने इष्टकोच्चये ॥ 3-267-12 पदातिनः पद्भ्यां अतितुं सततं गन्तुं शीलं येषां ते पदातयः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|